वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: इरिम्बिठिः काण्वः छन्द: गायत्री स्वर: षड्जः काण्ड:

ब्र꣣ह्मा꣡ण꣢स्त्वा यु꣣जा꣢ व꣣य꣡ꣳ सो꣢म꣣पा꣡मि꣢न्द्र सो꣣मि꣡नः꣢ । सु꣣ता꣡व꣢न्तो हवामहे ॥६६८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ब्रह्माणस्त्वा युजा वयꣳ सोमपामिन्द्र सोमिनः । सुतावन्तो हवामहे ॥६६८॥

मन्त्र उच्चारण
पद पाठ

ब्र꣣ह्मा꣡णः꣢ । त्वा꣣ । युजा꣢ । व꣣य꣢म् । सो꣣मपा꣢म् । सो꣣म । पा꣢म् । इ꣣न्द्र । सो꣡मिनः꣢ । सु꣣ता꣡वन्तः꣢ । ह꣣वामहे ॥६६८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 668 | (कौथोम) 1 » 1 » 6 » 3 | (रानायाणीय) 1 » 2 » 3 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः उसी विषय का उपदेश किया गया है।

पदार्थान्वयभाषाः -

हे (इन्द्र) आत्मन् ! हे शिष्य ! (सोमपाम्) ज्ञान का पान करनेवाले (त्वा) तुझे (सोमिनः) ज्ञानवान्, (सुतावन्तः) शिष्यरूप पुत्रोंवाले, (ब्रह्माणः) ब्रह्मज्ञानी (वयम्) हम गुरुजन (युजा) पारस्परिक सहयोग के साथ अथवा तेरे साथ घनिष्ठ सम्बन्धपूर्वक (हवामहे) विद्या पढ़ाने और सदाचार सिखाने के लिए बुलाते हैं ॥३॥

भावार्थभाषाः -

जो स्वयं विद्यावान्, सदाचारी और ब्रह्म का अनुभव प्राप्त किये हुए गुरु होते हैं, वे ही शिष्यों को विद्वान् सदाचारी और ब्रह्मज्ञानी बना सकते हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (इन्द्र) आत्मन् ! हे शिष्य ! (सोमपाम्) ज्ञानस्य पातारम् (त्वा) त्वाम् (सोमिनः) ज्ञानवन्तः (सुतावन्तः) अनेके सुताः शिष्यरूपाः पुत्राः येषां सन्तीति तादृशाः। [सुतवन्तः इति प्राप्ते दीर्घश्छान्दसः।] (ब्रह्माणः) ब्रह्मज्ञानिनः (वयम्) गुरवः (युजा) पारस्परिकसहयोगेन त्वया सह घनिष्ठसम्बन्धेन वा (हवामहे) विद्याध्यापनार्थं सदाचारशिक्षणार्थं च आह्वयामः ॥३॥

भावार्थभाषाः -

ये स्वयं विद्यावन्तः सदाचारिणः प्राप्तब्रह्मानुभवाश्च गुरवो भवन्ति त एव शिष्यान् विदुषः सदाचारिणो ब्रह्मज्ञानिनश्च कर्त्तुं पारयन्ति ॥३॥

टिप्पणी: १. ८।१७।३, अथ० २०।३।३।, ३८।३, ४७।९, अथर्ववेदे सर्वत्र ‘युजा वयं’ इत्यत्र ‘वयं युजा’ इति पाठः।